SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोः पुष्पेषु तुलसीमाहमा । तथा, तुलसीकाष्ठसम्भूतं चन्दनं यच्छतो हरेः। नियोति पातकं सर्व पूर्वजन्मशतैः कृतम् ।। यो ददाति हरेनित्यं तुलसीकाष्ठचन्दनम् । युगानि वसते स्वर्गे अनन्तानि नरोत्तम ।। पाने, सर्वेषामपि देवानां तुलसीकाष्ठचन्दनम् । पितृणां च विशेषेण सदाभीष्टं हरेर्यथा ॥ तावत्कस्तूरिकामोदः कर्पूरस्य सुगन्धिता। यावन्न दीयते विष्णोस्तुलसीकाष्ठचन्दनम् ।। तुलसीदललग्नेन चन्दनेन जनार्दनम् । विलेपयति यो नित्यं लभते चिन्तितं फलम् ।। न तेन सदृशो लोके वैष्णवो भुवि विद्यते । यः प्रयच्छति कृष्णस्य तुलसीकाष्ठचन्दनम् ॥ तुलसीचन्दनालिप्तः कुरुते हरिपूजनम् । पूजितेन दिनैकेन लभते शतवार्षिकम् ॥ पुण्यमिति शेषः। यो हि भागवतो भूत्वा कलौ तुलसिचन्दनम् । न चार्पयति वै विष्णोर्न स भागवतो नरः॥ मृतिकाले तु संप्राप्ते तुलसीतरुचन्दनम् । भवेच्च यस्य देहे तु हरिभूत्वा हरिं व्रजेत् ।। अथ पुष्पाणि | तत्र तुलसीसमर्पणादिमहिमा । हारीतः, तुलस्यौ पङ्कजे जात्यौ केतक्यौ करवीरके । For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy