SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org કર્ वीरमित्रोदयस्य पूजाप्रकाशे रास्तानि दश पुष्पाणि तथा रक्तोत्पलानि च ॥ स्कान्दे, तुलसीं ये विचिन्वन्ति धन्यास्ते करपल्लवाः । केशवार्थे कलौ ये तु रोपयन्तीह भूतले || किं करिष्यति संरुष्टो यमोऽपि सह किङ्करैः । तुलसीदलैस्तु देवेशः पूजितो येन दुःखहा || मणिकाञ्चनपुष्पाणि तथा मुक्तामयानि च । तुलसीदलमात्रस्य कलां नाईन्ति षोडशीम् ॥ पाझे, तुलसीमअरीभिर्यः कुर्याद्धरिहरार्चनम् । न स गर्भगृहं याति मुक्तिभागी भवेन्नरः ॥ आरोग्य तुलसी वैश्य संपूज्य तद्दलैर्हरिम् । वसन्ति योदमानास्ते यत्र देववतुर्भुजः ॥ सात् गर्जन्ति पुष्पाणि मालत्यादीनि भूरिशः । यावत्र प्राप्यते कृष्णा तुलसी विष्णुवल्लभा ॥ तावन्ति रत्नानि कौस्तुभादीनि भूतले । यावन्न प्राप्यते कृष्णतुलसीपत्रमञ्जरी ॥ पत्रसहिता मञ्जरीति व्युत्पत्तिबलात् मञ्जर्यो पत्रसाहित्यमपेक्षितम् । तुलसी कृष्णगौरा च तयाऽभ्यर्च्य जनार्दनम् । नरो याति तनुं त्यक्ता वैष्णवीं शाश्वतीं गतिम् ॥ तथा पाद्मे वृन्दोपाख्याने, सत्वं प्रीतिकरं वाक्यं कोपस्तस्यास्तु तामसः । भावद्वयं हरौ जातं तत्तद्वर्णद्वयं भूत || तक्या उन्द्रायाः । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy