SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ वीरमित्रोदयस्य पूजाप्रकाशे सततं चार्चयनित्यं हरिदेहसमन्विताम् । ध्यानं पूजां तथा दानमग्निकार्य जपादिकम् ॥ तदने पञ्चकं कुर्यात्तत्सर्व चाक्षयं भवेत् । शालग्रामोद्भवं देवं भावयेदपि यो नरः ॥ सोऽपि याति परं ब्रह्म किंपुनर्यः सदार्चयेत् । कृत्वा पापसहस्राणि शालग्रामं प्रपश्यति ॥ पापपाशाद्विनिर्मुक्तो विष्णुलोकं स गच्छति । तत्रैव, एवं लक्षणसम्पन्ना पारम्पर्यक्रमागता । उत्तमा सा तु विज्ञेया गुरुदत्तापि तत्समा ॥ फलपुष्पैश्च तत्स्थानं गत्वा तत्र समर्चयेत् । गुरुभिः पूजयित्वाथ कलान्यासाच्च मन्त्रतः॥ गुरुभिः कारयित्वैवं शुभे लग्नेऽनुकूलके । ततो गुरुं समभ्यर्च्य शक्त्या भक्त्या प्रणम्य तम् ॥ पूजयिष्याम्यहं भक्त्या शालग्रामोद्भवं हरिम् । गुरुः शिष्याञ्जलौ दद्याच्छान्तिः शिवमिति ब्रुवन् । गृहीत्वा शिरसा धृत्वा ततः सम्पूजयेत्सदा । शालग्रामे स्वयं गत्वा व्रतैः सह विशेषतः॥ पूर्वाद्रः पूर्वदृष्टां तु दत्वाऽऽराध्य सदक्षिणाम् । द्वितीया तु स्वयं पूज्या सा शिला चोत्तमोत्तमा ॥ क्रयक्रीता परिज्ञेया मध्यमा याचिताऽधमा । व्रती सन् । पूर्वाद्रेः पूर्व प्रथमतो दृष्टां शिलामाराध्य पूजयित्वा सदक्षिणां ब्राह्मणाय दत्वा द्वितीया मूर्तिः स्वयं पूज्या सा सर्वोत्तमेत्यर्थः। अथ त्याज्याः शिला उक्तास्तत्रैव, For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy