SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवपूजायाः स्थानविशेषेषु शालग्रामशिलाः। १५ तैश्चाहं पूजितो यस्मानान्यथैव वसुन्धरे ॥ कुरुक्षेत्रसमो देशः समन्तात् क्रोशपञ्चकम् । तन्मध्ये म्रियते यस्तु साधकः सुसमाहितः॥ दशधन्वन्तरस्थस्तु जायते न पुनर्भवे । दशधन्वन्तरं चत्वारिंशद्धस्तमध्ये । शालग्रामशिला यत्र तिष्ठेत्तु हरिचिह्निता । हरिचिद्रं चक्रं तद्वती। तत्रैवच कुरुक्षेत्रं नैमिषं पुष्करं तथा । सा श्रेष्ठा सर्वदा पूज्या मुच्यते पूजको भवात् ॥ शालग्राममयी मुद्रा संस्थिता यत्र कुत्रचित् । वाराणस्यां यवाधिक्यं समन्तायोजनत्रयम् ॥ शालग्रामसमीपे तु क्रोशमात्रं समन्ततः । कीकटेऽपि नरो याति वैष्णवं भवनं मृतः ॥ कामासक्तोऽपि यो नित्यं भक्तिभावविवर्जितः । शालग्रामशिलां पुत्र पूजयेत्सोऽच्युतो भवेत् ॥ कामासक्तोऽपि क्रुद्धोऽपि शालग्रामशिलार्चनम् । भक्त्या वा यदिवाऽभत्या कृत्वा मुक्तिमवाप्नुयात् ॥ यत्किञ्चित्पैतृकं कुर्यात् सपिण्डं वा तदन्तिके । विष्णुलोकं स गछेत्तु लभते शाश्वतं पदम् ॥ जन्मप्रभृति यत्पापं दुःखभूतं महत्कृतम् । इयं मुद्राऽर्पिता येन नाशयेत्तस्य तत्क्षणात् ।। मुद्रा शिला । अर्पिता दत्ता। हरिस्तत्र सदा विष्णुमन्त्रात्मा विश्वरूपधृक् ।। लक्ष्मीः कीर्तिस्तथा कान्तिः पुष्टिः श्रीश्च सरस्वती । हीः शान्तिश्च सदा सर्वमुद्रायां पुत्र संस्थिताः ॥ For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy