________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोपयस्य पूजाप्रकाशे
राजती पुत्रदा चैव तथा प्रज्ञाकरी मता ॥ ब्रह्मवर्चस्करी ताम्री तथाऽऽरोग्यप्रदायिनी । रैतिकी कीर्तिदा चैव तथा कान्तिप्रदायिनी ॥ लोही च जयदा ज्ञेया शैलजा भूमिदायिनी । द्रुमजा धान्यदा ज्ञेया मृन्मयी भोगदायिनी ॥ तत्रादौ पूजनाथाय मुख्यं स्थानं मयोच्यते । शालग्रामोद्भवा शस्ता जाता या चक्रतीर्थके ॥
ब्रह्मोवाच । भगवन् देवदेवेश शङ्खचक्रदाधर । संशयं मे समुत्पन्नं छेत्तुमर्हस्यशेषतः ॥ शालग्रामं तु यत्पुण्यं क्षेत्रं त्रैलोक्यविश्रुतम् । तत्र तिष्ठति विश्वात्मा सर्वदेवनमस्कृतः ॥ क्षेत्रोत्पन्नाः स्वयम्बिम्बाः सूक्ष्माः सूक्ष्मतरास्तथा । प्रादुर्भावैश्च विविधैलांछनैश्च समान्विताः ॥ अर्थदाः कामदाश्चैव धर्ममोक्षपदायकाः । शस्ता अशस्ताः किम्भूता एतदाख्यातुमर्हसि ॥
श्रीभगवानुवाच। शृणु ब्रह्मन् प्रवक्ष्यामि शालग्रामे स्थितं हरिम् । हरिस्तत्र स्थितो नित्यं प्रादुर्भावैरनेकधा ॥ लाञ्छनैर्विविधाकारैलाञ्छनं यत्र दृश्यते । चक्राङ्कितं हरेश्चापि शालग्रामस्य लक्षणम् ।। यथायोग्यं विचार्यैव ग्रहीतव्यं प्रयत्नतः । आदौ शिलां परीक्षेत ग्राखाग्राह्यविभागतः ।। स्थिरासना सुवृत्ता च फलाकारा यवानना । कृष्णा च पाण्डुरा पीता नीला श्यामाथ शुक्लका ॥
For Private And Personal Use Only