SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोः पुष्पाणि । निषेधस्तु गोपालमूर्त्यतिरिक्तमूर्तिपूनापरः । विष्णुधर्मोत्तरे, सुवर्णकेतकीपुष्पं यो ददाति जनार्दने । कोटिजन्मार्जितं पापं दहते गरुडध्वजः ॥ सुवर्णकेतकी सुवर्णकेतकी । तस्या नरसिंहपुराणगौतमीतत्रयोविधानात् इत्याहुः । वनकेतक्येव निषिद्धति माधवमानसोल्लासः। अत एव आग्नेये, पत्रेणैकेन केतक्याः पूजितो मधुसूदनः । सहसमन्दं सुप्रीतो भवेच्च गरुडध्वजः ।। अन्यच्च, अर्चयित्वा हृषीकेशं कुसुमैः केतकोद्भवैः । पुण्यवद्भवनं याति केशवस्य निरामयम् ।। केतकीपत्रपुष्पं च भृङ्गराजस्य पत्रकम् । तुलसी कृष्णतुलसी सद्यस्तुष्टिकरं हरेः ॥ अत्र पत्रं च पुष्पं चेति समाहारद्वन्द्वो न युक्तः केतक्याः पुष्पदान इव पत्रदाने शिष्टाचारादर्शनात् । किंतर्हि, कर्मधारयोत्र युक्तः । एवं च सति केतक्याः पत्ररूपं यत्पुष्पं तद्देयमित्यर्थः। समाहारेऽपि पुष्पस्यैव पत्रं नतु पुष्पावयवभिन्न पत्रम् । एवं च म्पकादेः पुष्पेणेव पत्रेण पूजाऽपि युक्ता, शिष्टाचारात् । यत्र तु पत्रेण पूजन विधिस्तत्र पत्रपूजैव युक्तेति । विष्णुधर्मोत्तरे, केतकीपत्रमादय मिथुनस्थे दिवाकरे । यैरर्चितो हरिभक्त्या प्रीतो मन्वन्तरं मुने । पत्रशब्दः पुष्पावयवपरः। For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy