________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे अनामित्वं गृहभङ्गकारणमतो गृहाणाश्रममुत्तमं मुने । अनाश्रमस्थैर्द्विज वेदपारगैरपि त्वहं नानुगृहामि चार्चनम् ॥
इति भगवद्वाक्यम् । तस्यायमर्थः । आश्रमिकृतमर्चनं यथा ऽनुगृह्णामि न तथाऽनाश्रमिकृतमिति । साधारणधर्मबोधकवचनस्वरसादाचाराच्च ।
देवीपुराणे देवीमूर्तीरभिधाय ब्रह्मवाक्यम्, एतासां शास्त्रवेत्ता यो देवपूजाविधौ शुभः । मातृमण्डलवेत्ता च ब्राह्मणः क्षत्रियोऽपि वा ॥ प्रतिचारोऽथ वैश्यो वाऽप्यन्यो वा तन्त्रविद्यदि । पूजाविधौ भवेत् श्रेष्ठो नापटुर्न कुशीलवः ॥ नानैष्ठिको दाम्भिको वा पूजकः प्राप्यते शुभः ॥
प्रतिचारः शूद्रः । अपटुः असमर्थः । पूजारनाकरे तु पण्ड इति पठित्वा रुद्रपूजायामकुशल इतिव्याख्यातम् । कुशीलवो नटादिः। अत्रैकपाके वसतां पुत्रभ्रातृणामपि देवपूजाधिकारमाह
आश्वलायनाचार्यः, पृथगप्येकपाकानां ब्रह्मयज्ञो द्विजातिनाम् । अग्निहोत्रं सुरार्चा च सन्ध्या नित्यं भवेत्ततः ॥ इति । देवपूजायां सर्ववर्णाधिकारे-- विष्णुः, आगमोक्तेन मार्गेण स्त्रीशूरैरपि पूजनम् । कर्त्तव्यं श्रद्धया विष्णोः सर्वैश्वयंप्रदायकम् । स्मृत्यर्थसारे-- बौधायनः, शूद्राणां चैव भवति नाम्ना वै देवतार्चनम् । सर्वे चागममार्गेण कुर्युर्वेदानुसारिणा ॥
For Private And Personal Use Only