________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशः ।
श्रीगणेशायनमः ॥
अथ देवतापूजा |
तत्र पूजानाम देवतोद्देशेन द्रव्यत्यागात्मकत्वाद्याग एव । तत्र यद्यपि केषांचिदावाहनादीनामवागात्मकत्वात् पूजात्वं न स्यात् । नच तेषां पूजात्वं नास्त्येवेति वाच्यम् । षोडशस्वप्युपचारेषु शास्त्रकाराणां पूजाशब्दप्रयोगात् । तथापि यागायागसमुदाये पूजाशब्दा गौरवितप्रीतिहेतुक्रियात्वेनोपाधिना रूढ एव । यथा इष्टिपशुसोमसमुदाये राजसूयशब्दः । यद्यपि ईश्वरे यागायागसमुदायक्रियया जीववदन्तःकरणवृत्तिरूपा प्रीतिर्नोत्पद्यते, अन्तः करणाभावात् । तथापि मायावृत्तिविशेष एव प्रीतिः शिक्षादिवत् । सा च यद्यपि उत्पन्नत्वान्नश्यति तथापि फलं यावत् तिष्ठति । अन्येषां मते अपूर्ववत् ।
अथ देवपूजनाधिकारिणः ।
तत्र
ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः । संपूज्य तं सुरश्रेष्ठं भक्त्या सिंहवपुर्धरम् ॥ मुच्यन्ते चाशुभैर्दुखैर्जन्मकोटिसमुद्भवैः । इतिनारसिंहीयात्, पूजनस्य
विष्णुप्रा ........देवब्राह्मणपूजनम् ।
इति साधारणधर्ममध्ये पाठाच्च असङ्कोचेन सर्वेऽधिकारिणः । यत्तु नरसिंहपुराणे,
For Private And Personal Use Only