SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दारवत्याश्चक्रशिला। श्रीभगवानुवाच । म्लेच्छदेशेऽशुचौ वापि चक्राको यत्र तिष्ठति । योजनानां तथा त्रीणि मम क्षेत्रं वसुन्धरे । तन्मध्ये म्रियते यस्तु पूजकः सुसमाहितः । प्रेतवाधां च सम्प्राप्तुं न पुनः सोपि जायते ॥ चक्राङ्कस्य तु सान्निध्ये यत्कर्म क्रियते नरैः । स्नानं दानं तपो होमः सर्व तस्याक्षयं भवेत् ॥ संवत्सरं तु यत्पापं मनसा कर्मणा कृतम् । तत्सर्व नश्यते पुंसां सद्यश्चक्राङ्कदर्शनात ॥ ज्वरदाहो विषं चैव अग्निचौरभयं तथा । सर्वे ते प्रलयं यान्ति चक्राको यत्र तिष्ठति ॥ भूतप्रेतपिशाचाच डाकिन्यश्च वसुन्धरं । सर्वे ते प्रलयं यान्ति यत्र चक्राङ्कितं न्यसेत् ॥ संवत्सरं तु यः कुर्यात् पूजां स्पर्शनदर्शने । विना सांख्येन योगेन मुच्यते नात्र संशयः ॥ भक्त्या वा यदिवाऽत्या चक्राक्षं पूजयेन्नरः । अपिचेत्स दुराचारो मुच्यते नात्र संशयः ।। द्वारवतीशिला देवैर्मुद्रिता मम मुद्रया। यत्रापि नीयते तत्स्यात् तीर्थ द्वादशयोजनम् ॥ यत्किश्चित्तस्य पाषाणं कृष्णचक्रेण मुद्रितम् । तस्य दर्शनमात्रेण मुच्यते सर्वपातकः ॥ हृदि स्थिते तु चक्राङ्के दूता वैवस्वतस्य तु । नोपसर्पन्ति ते भीता दृष्ट्वा विष्णुपरिग्रहम् ॥ भिन्नश्चैवार्थनाशया स्थूलो बुद्धिविनाशतः । दीर्घश्वायुहरो ज्ञेयो रूक्षो बुद्धिविनाशकृत् ॥ For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy