SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाश कृष्णपक्षे विशेषेण तत्रापि च विशेषतः ॥ अमावास्या च निर्दिष्टा द्वादशी च महाफला । आश्वयुज्यामतीतायां कृष्णपक्षे च या भवेत् ।। अमावास्या तदा पुण्या द्वादशी च विशेषः । देवस्य दक्षिणे पायें देया तैलतुला नृप । पलाष्टकयुतां राजन् वर्ति तत्र तु दापयेत् । महारजनरक्तेन समग्रेण तु वाससा॥ पलाष्टकयुता तैलतुला अष्टोत्तरं शतम् । तैलपलानामिति शेषः । वामपार्श्वे तु देवस्य या घृतेन तुला नृप ॥ पलाष्टकयुतां शुक्लां वर्ति तत्र तु दापयेत् । वाससा तु समग्रेण सोपवासो जितेन्द्रियः ॥ महावर्तिद्वयमिदं सकृद्दत्त्वा महामते । स्वर्लोकं मुचिरं भुत्का जायते भूतले नृपः ॥ कुले च राजशार्दूल तत्र स्यादीपवत्मभः । अत्युज्वलश्च भवति युद्धेषु कलहेषु च ॥ ख्याति याति तथा लोके सज्जनानां च संसदि । एकमप्यथ यो दद्यादभीष्टमनयोयोः ॥ मानुष्ये सर्वमाप्नोति यदुक्तं ते मयाऽनघ । स्वर्गे तथात्वमाप्नोति भोगकालं च भूमिप ॥ स्कान्दे, नीराजनप्रभा विष्णोर्येषां गात्राणि संस्पृशेत् । यज्ञावभृथलक्षाणां स्नान लभते फलम् ॥ स्नानार्चनक्रियाकाले घण्टानादं करोति यः । पुरतो वासुदेवस्य तस्य पुण्यफलं शृणु ॥ For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy