SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोः पुष्पाणि । त्यक्त्वा तु मालतीपुष्पं पुष्पाण्यन्यानि च प्रभुः । गृह्णाति तुलसी शुष्कामपि पर्युषितां प्रभुः ॥ वयं पर्युषितं पत्रं वयं पर्युषितं जलम् । न वयं जाह्नवीतोयं न वयं तुलसीदलम् ।। अपामार्गदलं पुण्यं तस्माद् भृङ्गरजस्य च । तस्माच्च खादिरं श्रेष्ठं शमीपत्रं ततः परम् ।। दूर्वापत्रं ततः श्रेष्ठं ततश्च कुशपत्रकम् । नतो दमनकं श्रेष्ठं ततो बिल्वस्य पत्रकम् ।। बिल्वपत्रादपि हरेस्तुलसीपत्रमुत्तमम् । तुलसीदललक्षेण योर्चयेद्रुक्मिणीपतिम् ॥ जन्मार्जितसहस्रस्य पापस्य कुरुते क्षयम् । शुद्धकाञ्चनपुष्पाणि रत्नमुक्ताफलान्यपि । सर्वाणि तुलसीपत्रकलां नाईन्ति षोडशीम् । योगिनां निवृतौ वाञ्छा कामिनां तु रतौ यथा ॥ पुष्पेष्वपि च सर्वेषु तुलस्यां तु तथा हरेः। सर्वेषु पुष्पेषु सत्स्वपि हरेस्तुलस्यां रतिरित्यर्थः । विष्णुरहस्ये, सकृदभ्यर्च्य गोविन्दं बिल्वपत्रेण मानवः । मुक्तिभागी निरातङ्कः कृष्णस्यानुचरो भवेत् ॥ अग्निपुराणे, बिल्वपत्रं शमीपत्र पत्रं भृङ्गरजस्य च । तमालपत्रं च हरेः सद्यस्तुष्टिकरं परम् ॥ अस्यापवादः। शमीपत्राणि दर्वाश्च भृाराजस्तथैव च । सुप्ते देवे न देयानि निद्राभाकराणि ॥ For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy