________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवपूजायाः स्थानविशेषाः ।
तथा, विप्राणां रूपमास्थाय प्रचरन्तीह देवताः। पूज्यन्ते ब्राह्मणालाभे प्रतिमादिषु कुत्र चित् ।। 'ब्राह्मणो वै सर्वा देवता' इतिश्रुतेाह्मणे पूजा अतिप्रशस्ता । भारते सर्वदेवताधारत्वकथनाच्च । अत एव श्रावणद्वादशीव्रतविशेषे ब्राह्मणादेः पूजाधारता श्रूयते
यथा कल्पतरौ ब्रह्मपुराणे, प्रयागादिषु तीर्थेषु नदीनां सङ्गमेषु च । कृत्वा स्नानं तु विधिना हृषीकेशं प्रपूजयेत् ।। जले स्थलेऽम्बरे मूर्ती कुम्भे वा कमलोपरि । वह्नौ विप्रे गुरौ वापि पितर्यथ च मातरि ॥ आहृया ऽऽसनपुण्याहस्वागतैरथ विस्तरैः । पाद्यार्घपुष्पधूपैश्च दीपालङ्कारचामरैः ॥
इत्यादि । कुम्भे दुर्गादिपूजा पुराणोक्ता । उत्सवादिषु कुम्भे सर्वदेवान् पूजयन्ति । कमलापरि रेखादिना कमलाकारवति पात्रे सर्वदेवपूजा आगमादिप्रतिद्धा । भूमिजलाकाशपतिमाः सर्वदेवानाम् । विष्णोरकाशिलाशालग्रामशिले । शिवस्य लिङ्गम् । दुर्गायाः पुस्तकशूलखड्गाः । विष्णुपूजा शालग्रामे महाफला । शिवपूजा लिङ्गे महाफला । शालग्रामे सर्वेपि देवाः पूज्या इति शिष्टाः । 'न तु केवलभूतले' इतिवचनात् पूजा केवलभूमौ सति सम्भवे न कार्या । गृहस्थेन तु शिवपूजा जले न कार्येत्यागमिकाः।
श्रीभागवते भगवद्वाक्यम् , सूर्योऽग्निाह्मणा गावो वैष्णवः खं मरुज्जलम् । भूरात्मा सर्वभूतानि तत्र पूजापदानि ये ॥
For Private And Personal Use Only