________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे मूर्ये तु विद्यया त्रय्या हविषानौ यजेत माम् । आतिथ्येन तु विप्राग्ये गोष्वङ्ग यवसादिना ।। वैष्णवे बन्धुत्कृत्या खे हृदि ध्याननिष्ठया । वायौ मुख्याधिया तोये द्रव्यस्तोयपुरस्कृतैः ॥ स्थण्डिले मन्त्रहदयैर्भोगेरात्मानमात्मनि । क्षेत्रनं सर्वभूतेषु समत्वेन यजेत माम् ॥ मुख्यधिया प्राणबुद्ध्या । भोगैरिति स्रक्चन्दनादिना । आत्माऽभिन्नः परमेश्वरः प्रीयतामिति बुध्या भोगाचरणमपि पूजेत्यर्थः।
तदुक्तं लिङ्गपुराणे, गन्धपुष्पादिकं सर्व शिरसा यो विधारयेत् । विष्णवे सर्वमित्येवं मत्वासौ वैष्णवः स्मृतः ॥ इति ।
आतिथ्यादिविशेषविधावपि गन्धाधुपचारपूजा न विरुद्धा। अत एव सूर्यादौ द्रव्यैरपि पूजां वक्ष्यति
अर्चायां स्थण्डिले वह्नौ सूर्ये खे यदि वा द्विजे । द्रव्येण भक्तियुक्तोऽर्चेत् स्वगुरुं माममायया ॥ इति । आगमिकास्तु यन्त्रे पूजामिच्छन्ति यन्त्र मन्त्रमयं प्रोक्तं मन्त्रात्मा देवतेति च । यन्त्रं विना कृता पूजा देवता न प्रसीदति ।। इतिवाक्यात् । तयेति शेषः। नारदोऽपि, अप्स्वग्नौ हृदये सूर्ये स्थण्डिले प्रतिमासु च । षट्रस्थानेषु हरेः सम्यगर्चनं मुनिभिः स्मृतम् ॥ इति । विष्णुधर्मोत्तरे, आपो ह्यायतनं तस्य तस्मात्तासु सदा हरिः ।
For Private And Personal Use Only