________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाश न त्वसम्पूज्य भुञ्जीत केशवं कौशिकी शिवम् ।
इति वाचस्पतिमिश्रधृतकालिकापुराणवचनाच्छिवादिपूजाऽपि नित्या । एतेन शिवादिपूजनं काम्यमेवेति मतमपास्तम् ।
शिवं भास्करमग्निं च केशवं कौशिकीमपि । मनसाऽनर्चयन् याति देवलोकादधोगतिम् ।। इतिवचनाच्च ।
अथ देवपूजायाः स्थानविशेषाः । गृह्यपरिशिष्टे, तानप्सु वाऽग्नौ वा सूर्ये वा स्थण्डिले प्रतिमासु नावाहनविसर्जने भवतः । स्वाकृतिषु शस्तामु देवता सन्निहितेति ।
शातातपोपि, भूमावग्नौ तथा चाप्सु दिवि सूर्ये च देवताः। नित्यमन्ने हिरण्ये च ब्राह्मणेषु च गोषु च ॥ इति ।
एतेषु स्थानेषु सन्निहिता इतिशेषः । भूमौ जले आकाशे भावनया देवतात्वम् । अन्नादीनां तु देवतार्चनायो नाधिकरणत्वं शिष्टाचारविरोधात् । किन्तु पूजार्थत्वमेव देवताधारत्वकीर्तनम् ॥
मनुः, अप्स्वग्नौ चैव हृदये स्थण्डिले प्रतिमामु च । विप्रेषु च हरेः सम्यगर्चनं मनुना स्मृतम् । अग्नौ क्रियावां देवो दिवि देवो मनीषिणाम् ॥ प्रतिमास्वल्पबुद्धीनां योगिनां हृदये हरिः। तस्य सर्वगतस्यार्चा स्थण्डिले भावितात्मनाम् ॥ विप्राणां वपुराश्रित्य सर्वास्तिष्ठन्ति देवताः। अतस्तत्रैव ताः पूज्या अलाभे प्रतिमादिषु ।।
For Private And Personal Use Only