SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाश नार्क नोन्मत्तकं काञ्चीं तथैव गिरिकर्णिकाम् । न कण्टकारिकापुष्पमच्युताय निवेदयेत् ।। कौटनं शाल्मलीपुष्पं शैरीषं च जनाईने । निवेदितं भयं शोकं निःस्वतां च प्रयच्छति ॥ निःस्वतां दारिद्यम् । करानीतं पटानीतमानीतं चार्कपत्रके । एरण्डपत्रेऽप्यानीतं तत्पुष्पं सकलं त्यजेत् ॥ करोऽत्र वामकरः । पटः अधोवस्त्रम् । अत एव, देवोपरिधृतं यच्च वामहस्ते च यद्धृतम् । अधोवस्त्रधृतं यच्च तत्पुष्पं परिवर्जयेत् ॥ विष्णुः, नोग्रगन्धि पुष्पं नच कण्टकिजं कण्टकिजमपि शुक्लं मुगन्धिपत्रं दद्यात् । न रक्तं रक्तमपि जलजं कुङ्कुमजमपि दद्यात् । विष्णुधर्मोत्तरे, श्मशानचैत्यगुमजं भूमाववनिपातजम् । कलिका तु न दातव्या देवदेवस्य चक्रिणः॥ रक्तं करवीरपुष्पं तु पूर्वोदाहृतवचनबलाच्छिष्टाचाराच्च देयमेव । करवीरस्य पुष्पाणि तथा धत्तूरकस्य च । कृष्णं च कुटजं चार्क नैव देयं जनार्दने । इति यद्वाक्यं तत् गृहोत्थकरवीरविषयम् तस्य पूर्वोदाहृतवाक्यनिषेधात् । गन्धोत्कटानि शुभ्राणि दीप्तिदीधितिमन्ति च । घनच्छन्नदलाग्राणि घनकेसरकाणि च ।। For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy