SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ hana Kendra Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे रक्तं कुङ्कुमम् । रक्तचन्दनमित्यन्ये । तथा, आपः क्षीरं कुशाग्राणि दधि सर्पिश्च तण्डुलाः । यवा सिद्धार्थकाश्चैव अष्टाङ्गोघः प्रकीर्तितः॥ आगमे, गन्धपुष्पाक्षतयवकुशाग्रतिलसर्पपैः । सर्वैः सर्वदेवानामर्षोऽयं परिकीर्तितः ॥ इति । अन्यच्च, शङ्के कृत्वा तु पानीयं गन्धष्पुपाक्षतान्वितम् । अर्घ ददाति देवस्य ससागरधराफलम् । ससागरधरादानफलं प्राप्नोतीति शेषः । इक्षुर्मधु घृतं चैव पयो दधि सहैव तु । प्रस्थप्रमाणं वा ग्राह्यं मधुपर्कमिहोच्यते ॥ इक्षुः ऐक्षवम् । एलालवगौशीरं च ककोलं च चतुर्थकम् । आचमनीयं विज्ञेयं यथालाभं प्रगृह्य वा ॥ अथ लानद्रव्यविधिः। गवां शतस्य विषाणां यद्दत्तस्य भवेत्फलम् ॥ घृतप्रस्थेन तद्विष्णोर्भवेत्स्नानान संशयः । नरसिंहपुराणे, क्षीरेण पूर्व कुर्वीत दना पश्चात् घृतेन च ॥ मधुना चाथ खण्डेन क्रमो ज्ञेयो विचक्षणैः । बृहन्नारदीये, प्रस्थमात्रेण पयसो यः स्नापयति केशवम् । कुलायुतायुतयुतो विष्णोः सारिष्टिमाप्नुयात् ।। सार्टिरित्यर्थे सारिष्टिरित्यार्षम् । तदर्थः सौभाग्यं फलम् । For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy