SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे नारसिंहं समाराध्य विधिनाऽनेन मानवः । नित्यं सर्पिस्तिलैर्होमं ग्रामे यस्मिन् प्रयच्छति ॥ न भवेत्तस्य ग्रामस्य भयं भूतस्य कस्य चित् । अनावृष्टिर्महामारी राजचोरभयं न च ॥ इति । अथ निर्माल्यधारणम् । तत्र स्कन्दपुराणम्, पादपीठार्चितं पुष्पं व्यपोह्यैव च तत्त्ववित् । यथा देवस्य निर्माल्यं विष्वक्सेनाय दापयेत् ॥ तथा पवित्र कशेषसूत्रं शतयै प्रदापयेत् । विष्णु स्थितं पुष्पं शिरसा यो बहेन्नरः ।। अपर्युषितपापस्तु भवेद्युगचतुष्टयम् । कृष्णमूर्धाभिषिक्तं तु जलं तत्पादसम्भवम् ॥ कृत्वा मूर्धन्यवामोति फलं कोट्यैन्दवं मुने । यस्य नाभिस्थित पत्रं मुखे शिरसि कर्णयोः || तुलसीसम्भवं नित्यं तीर्थैस्तस्य मखैस्तु किम् । मुखे शिरसि देहे तु विष्णुतीर्थं तु यो वहेत् ॥ तुलसी मुनिशार्दूल तं च न स्पृशते कलिः । विष्णुतीर्थे तु निर्माल्यं यस्याङ्गं स्पृशते मुने ॥ स च रोगैस्तथा पापैर्मुक्तो भवति नारद । गृहीत्वा विष्णुपादाम्बु शते कृत्वा तु वैष्णवः || यो वच्छिरसा नित्यं स मुनिस्तपताम्वरः । कृत्वा पादोदकं शङ्गे वैष्णवानां महात्मनाम् ॥ यो ददाति तिलैर्मिश्रं चान्द्रायणशतं लभेत् । शङ्खोदकं हरेर्भुक्तं निर्माल्यं पादयोर्जलम् ॥ चन्दनं धूपशेषश्च ब्रह्महत्यापहारकम् । For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy