SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे इति वचनात् , दारुजमिति विष्णुपूजाव्यतिरिक्तकर्मपरम् । काष्ठासनोपविष्टेन वासुदेवस्य पूजनम् । इत्यागमेऽपराधोक्तः, पीठासनोपविष्टस्तु पूजयेद्वा निरासनः । मृन्मये धृपदानं च दीपं च कुरुतेर्चने । इत्यपराधोक्तेश्च । दारुजमपि कुशाद्यन्तरितं ग्राह्यमिति शिष्टाः। तथा, गोमयं मृन्मयं भौमं नम्बं पालाशमेव च । लोहबद्धं तथा दग्धमासनं परिवर्जयेत् ।। तथा, शमी च काश्मरी शालः प्लक्षो वा वरणस्तथा । पञ्चासनानि शस्तानि श्राद्धे देवार्चने तथा । पुलस्त्यः , पालाशं वटवृक्षोत्थमाश्वत्थं शाकक्षकम् । मृत्तिकोदुम्बरं पीठं मधूकं च विवर्जयेत् ।। भिन्नपीठानि वानि पितृदेवतकर्मणि । अथ प्रातः उत्थाय शुचिर्भूत्वा विष्णुं विज्ञापयेत् । यदुद्यमादिकं कर्म तत्त्वया प्रेरितो हरे । करिष्यामि त्वदाज्ञेयमिति विज्ञापनं मम॥ प्रातः प्रबोधितो विष्णो हृषीकेशेन यत्त्वया । यद्यत्कारयसे कर्म तत्करोमि तवाज्ञया । इति विज्ञाप्य स्तुत्वा वादित्रादिना प्रबोधयेत् । यथा, प्रबोधकाले देवस्य तूर्यघोषं करोति यः । देवदुन्दुभयस्तस्य तिष्ठन्ति द्वारसन्निधौ ।। For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy