SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोः पुष्पाणि । खदिरपुष्पसहस्रेभ्यः शमीपुष्पं विशिष्यते ॥ शमीपुष्पसहस्रेभ्यो बकपुष्पं विशिष्यते । बकपुष्पसहस्रादि नन्द्यावर्तो विशिष्यते ॥ नन्द्यावर्तसहस्राद्धि करवीरं विशिष्यते । करवीरस्य पुष्पाद्धि श्वेतं तत्पुष्पमुत्तमम् ।। कुशपुष्पसहस्राद्धि वनमल्ली विशिष्यते । बनवल्लीसहस्राद्धि चाम्पकं पुष्पमुत्तमम् ।। चाम्पकात् पुष्पसाहस्रादशोकं पुष्पमुचमम् । अशोकपुष्पसाहस्रात् वासन्तीपुष्पमुत्तमम् ।। वासन्तीपुष्पसाहस्रात् गोजटापुष्पमुत्तमम् । गोजटापुष्पसाहस्रात् मालतीपुष्पमुत्तमम् ।। मालतीपुष्पसाहनात् त्रिसन्ध्यं रक्तमुत्तमम् । त्रिसन्ध्यरक्तसाहस्रात् त्रिसन्ध्यश्वेतकं वरम् ।। त्रिसन्ध्यश्वेतसाहस्रात् कुन्दपुष्पं विशिष्यते । कुन्दपुष्पसहस्राद्धि शतपत्रं विशिष्यते ॥ शतपत्रसहस्राद्धि मल्लिकापुष्पमुत्तमम् । मल्लिकापुष्पसाहस्रात् जातीपुष्पं विशिष्यते । सर्वासां पुष्पजातीनां जातीपुष्पमिहोत्तमम् ।। जातीपुष्पसहस्रेण यस्तु मालां प्रयच्छति । विष्णवे विधिवद्भक्त्या तस्य पुण्यफलं शृणु ।। कल्पकोटिसहस्राणि कल्पकोटिशतानि च । वसेद्विष्णुपुरे श्रीमान् विष्णुतुल्यपराक्रमः ॥ मल्लिकामालतीजातीकेतकाशोकचम्पकैः । पुन्नागनागवकुलैः पबैरुत्पलजातिभिः ॥ पतैर्वन्यैश्च कुसुमैः प्रशस्तैरच्युतं नरः । For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy