Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 99
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूजोपयुक्तानि आसनानि । तथा, महाभागवताख्यस्य पुराणस्यैकमक्षरम् | यः पठेत्परया भक्त्या स गोदानफलं लभेत् ॥ लोकार्द्ध श्लोकपादं वा नित्यं भागवतं पठेत् । शृणोति श्रद्धया वापि गोसहस्रफलं लभेत् ।। इति । काष्ठम् । अथाऽऽसनम् । वंशाश्मदारुधरणीतृणपल्लवनिर्मितम् । वर्जयेदासनं विद्वान् दारिद्र्यव्याधिदुःखदम् || कृष्णाजिनं कम्बलं च नान्यदासनमिष्यते । नारदः, वंशासने दरिद्रः स्यात् पाषाणे पापसम्भवः । धरण्यां दुःखसम्भूतिर्दोर्भाग्यं दारुजासने || तृणासने पशोहनिः पल्लवे चित्तविभ्रमः । कृष्णाजिने ज्ञान सिद्धिर्मोक्षसिद्धिस्तु व्यावजे || तत्रैव, अभिचारादिके नीलं रक्तं वश्यादिकर्मणि । धनदं शान्तिदं मोक्षः सर्वार्थाचैव कम्बले || तथा भागुरिः, कौशेयं कम्बलं वापि अजिनं पट्टमेव च । दारुजं तालपर्ण च आसनं परिकल्पयेत् | कृष्णाजिनं गृहस्थेतरपरम् । अत्र काष्ठशब्देनायज्ञीयं नारदीये, देवार्चामासुरे काष्ठे उपविश्य करोति यः । श्राद्धं वा द्विजशार्दूल तत्पापं विहितं मम || For Private And Personal Use Only ९५

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107