Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 69
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोः पुष्पाणि। अहोरात्रं न निर्माल्यं पालाशं ब्रह्ममूर्धनि । कैतकं चैव हीबेरं सुगन्धोत्पलमेव च ॥ त्रिकालोत्थितमन्यद्वा पुष्पजातं मुरार्चितम् । निजगन्धक्षयं यावन्नास्ति तेषां सुराधिप । शङ्करेण विना तेषु सर्वदैव स्थितेष्वपि । नास्ति निर्माल्यता तेषां तावदित्याह भागुरिः॥ हीबेरं मुंडिवालेति कार्णाटकभषया । महाराष्ट्रभाषया करमाल । तथा, जम्बूजम्बीरखर्जूरबीजपूराम्रसंभवम् । वदर्यामलनारङ्गदाडिमं पनसोद्भवम् ।। कदलीनालिकेरोत्थं तथा च लकुचोद्भवम् । फलं प्रशस्तमुद्दिष्टं विष्णुपूजाविधौ बुधैः ।। मन्त्रिपत्रं दमनकं तमालो बर्बरी तथा । अपामार्गमतिश्रेष्ठं पत्रं विष्ण्ववर्चने सदा ॥ न द्रोणैरर्चयेत्सिहं मनसापि सदा बुधः । सिंहम् नृसिंहम् । स्वर्णपुष्पादशगुणमखण्डं बिल्वपत्रकम् । अखण्डैबिल्वपत्रैस्तु नृसिंहं यः प्रपूजयेत् ॥ सप्तजन्मकृतं पापं क्षिप्रमेव विनश्यति । पुष्पाभावे फलं शस्तं फलाभावे तु पल्लवम् ॥ पल्लवस्याप्यभावे तु सलिलं ग्राह्यमिष्यते । पुष्पाद्यसंभवे देवं पूजयेत्सिततण्डुलैः ॥ व्रीहिभिर्वा यवैर्वापि तिलैः कृष्णैर्विशेषतः। यद्वा पर्युषितश्चापि पुष्पाद्यैरविकारिभिः ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107