Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 78
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाश नारदीये, आघ्राणं यद्धरेर्दत्तं धूपोत्सृष्टस्य सर्वतः । तद्भवव्यालदष्टस्य तस्य कर्मविपापहम् ॥ नारदीये, शशोदकं हरेर्युक्तं निर्माल्यं पादयोर्जलम् । चन्दनं धूपशेषस्तु ब्रह्महत्यापहारकम् ॥ धूपं वाऽऽरात्रिकं विष्णोः कराभ्यां यः प्रवन्दते । कुलकोटि समुदृत्य याति विष्णोः परं पदम् ।। तथा, न भयं विद्यते तस्य दिव्यं भौमं रसातलम् । कृष्णधूपावशेषेणे यस्याङ्गं परिवासितम् ॥ इति । अथ दीपाः। दीपदाने प्रवक्ष्यामि ज्ञानयोगमनुत्तमम् ।। यथा येन यदा चैव प्रदेया यादृशाश्च ते ॥ ज्योतिस्तेजः प्रकाशं वाप्यूर्ध्वगं चापि वर्ण्यते । प्रदानोत्तेजनात्तस्मात्तेजो वर्धयते नृणाम् ॥ तान् दत्त्वा नोपहिंसेत न हरेनापि नाशयेत् । दीपहर्ता भवेदन्धस्तमोगतिरसुप्रभः॥ तथा, हविषा प्रथमः कल्पो द्वितीयश्चौपधीरसैः । वसामेदोऽस्थिनिर्यासन कार्यः पुष्टिमिच्छता ।। गिरिप्रपाते गहने चैत्यस्थाने चतुष्पथे । दीपदाता भवेन्नित्यं य इच्छेद्भूतिमात्मनः ॥ विष्णुः, घृतं तिलतैलं विना न किंचन दीपार्थे दद्यात् । इति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107