Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 90
________________ Shri Mahavir Jain Aradhana Kendra ८६ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे वैष्वक्सेनोद्धवाक्रूर सनकाद्याः शुकादयः । वासुदेवप्रसादं वै सर्वे गृह्णन्तु वैष्णवाः ॥ एवं प्रसङ्गागतमुक्त्वा अथ प्रकृतमनुसन्धीयते । अथ भुक्तवते दद्याज्जलैः कर्पूरवासितैः ॥ आचमनं तु ताम्बूलं चन्दनैः करमार्जनम् । अथ ताम्बूलविधिः । गन्धकर्पूरसंयुक्तं ताम्बूलं यो निवेदयेत् । विष्णवे भक्तियुक्तस्तु विष्णुलोके महीयते ॥ इति । रत्नकोशे, महापिप्पलपत्रं च क्रमुकस्य फलानि च । शुक्तिक्षारेण संयुक्तं ताम्बूलमिति संज्ञितम् || श्वेतपत्रं च चूर्ण च क्रमुकाणां फलानि च । नारिकेलफलोपेतं मातुलुङ्गसमायुतम् ॥ एलाकङ्कोलकर्पूरैर्मुखवासं प्रचक्षते । एतेषामप्यलाभे तु तत्तद्रव्यं स्मरेद्बुधः ॥ तत्तद्द्रव्यं तु सङ्कल्प्य पुष्पैर्वापि समर्चयेत् । अर्चनेषु विहीनं यत्तत्तोयेन प्रकल्पयेत् ॥ इति । पूगजातीफले दत्त्वा जातीपत्रं तथैव च । लवङ्गकं च कङ्कोलमेला कटपलं तथा ॥ तांबूलीनां किसलयं दत्त्वा स्वर्गमवाप्नुयात् । सौभाग्यमतुलं लोके तथा रूपमनुत्तमम् ॥ अवाप्नुयादिति पूर्वेणान्वयः । इति ताम्बूलम् । अनुलिप्य जगन्नाथं तालवृन्तेन वीजयेत् । वायुलोकमवाप्नोति पुरुषस्तेन कर्मणा || For Private And Personal Use Only

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107