Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोर्द्रव्यदानहोमविधी ।
शिरो हस्तौ च जानू च चिबुकं बाहुकद्वयम् । पश्चाङ्गं तु नमस्कारो नमस्कारत्रयं स्मृतम् ॥ उत्थायोत्थाय कर्तव्यः प्रणामो दण्डवगुवि । प्रदक्षिणं न कर्त्तव्यं पुरतः पृष्ठदर्शनात् ।। तथा, प्रदक्षिणा न कर्त्तव्या विमुखस्य हि कारणात् । करणमेव कारणम् विमुखीकरणादित्यर्थः । न देवं पृष्ठतः कृत्वा प्रणामं कचिदाचरेत् । वरमुत्थाय कर्त्तव्यं न वृथा भ्रमणं चरेत् ॥ पश्चात्कृत्वा तु यो देवं भ्रमित्वा प्रणमेन्नरः । तस्यैहिकफलं नास्ति न परत्र दुरात्मनः ॥ नरसिंहपुराणे, स्तोत्रै प्यैश्च देवाग्रे यः स्तौति मधुसूदनम् । यः कारयति विष्णोस्तु सन्ध्यायां मन्दिरं नरः॥ पर्वकाले विशेषेण कामगः कामरूपवान् । स सुरखी च विदग्धश्च सेव्यमानोऽप्सरोगणैः ॥ महार्हमणिचित्रेण विमानेन विराजता । स्वर्गात्स्वर्गमनुमाप्य विष्णुलोके महीयते ।। इति । अथ द्रव्यदानविधिः। आराधनार्थ यो मां तु यत्किञ्चिद्रव्यमुत्तमम् । तदत्त्वा नरसिंहाय विष्णुलोके महीयते ॥ वजं तु विष्णवे यस्तु गरुडन समन्वितम् । दद्यात्सोऽपि ध्वजाकीर्णविमानेन विराजता ॥ विष्णुलोकमवामोति सेव्यमानोऽप्सरोगणैः ॥ इति ।
अथ होमविधिर्नरसिंहपुराणे,
For Private And Personal Use Only

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107