Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 89
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णानैवेद्यप्रतिपत्तिः। अन्यदेवस्य नैवेद्यं भुक्त्वा चान्द्रायणं चरेत् ॥ विष्णुधर्मोत्तरे, प्राणेभ्यो जुहुयादन्नमनिवेदितमुत्तमम् । तृप्यन्ति सर्वदा प्राणा अनिवेदितभक्षणात् ॥ पाने गौतमः, अम्बरीप नवं वस्त्रं फलमन्नं रसादिकम् । कृत्वा कृष्णोपभोग्यं हि सदा सेव्यं च वैष्णवैः ॥ अनिवेद्य प्रभुञ्जानः प्रायश्चित्ती भवेन्नरः । हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः॥ पादोदकं च निर्माल्यं मस्तके यस्य सोऽच्युतः । मृत्युकाले तु यस्यास्ये दीयते पादयोर्जलम् ।। अपि पापसमाचारः स गच्छेद्वैष्णवं पदम् । तस्मात्सर्व निवेद्यैव विष्णोर्भुजीत नान्यथा ॥ कूर्मपुराणे, मध्याह्ने विधिवत्पूज्य श्रीविष्णुं वैष्णवोत्तमः । नैवेद्यं शिरसा नत्वा श्लोकमेतदुदीरयेत् ॥ यस्योच्छिष्टं हि वाञ्छन्ति ब्रह्माद्या ऋषयोऽमलाः । सिद्धाद्याश्च हरेस्तस्य वयमुच्छिष्टभोजिनः ॥ यस्य नाम्ना विनश्यन्ति महापातककोटयः । तस्य श्रीकृष्णदेवस्य वयमुच्छिष्टभोजिनः ।। उच्छिष्टभोजिनस्तस्य वयमद्भुतकर्मणः। येन लीलावतारेण हिरण्याक्षो निपातितः ॥ वैष्णवे दानमन्त्रःवलिविभीपणो भीष्मः कपिलो नारदार्जुनौ । प्रह्लादो जनको व्यास अम्बरीपस्तथैवच ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107