Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 87
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोनैवेद्यप्रतिपत्तिः । नैवेद्यशेषं तुलसीविमिश्रितं विशेषतः पादजलेन विष्णोः । योऽश्नाति नित्यं पुरुषोऽथ नारी प्रामोति यज्ञायुतकोटिपुण्यम् ॥ इति वचनात् विष्णुनिवेदितं सात्वताय ब्राह्मणाय वा दत्त्वा स्वयं भुञ्जीत । न च स्वयंग्रहणे दत्तापहारापत्तिरिति वाच्यम् । वचनेन प्रतिपत्तिविशेषविधाने दोषाभावात् । तद्यथा, वार्तिककारमते अग्नये त्यक्तस्य पुरोडाशस्य वचनेन स्विष्टकदादिप्रतिपत्तिस्तद्वत् । सात्वतासानिध्ये तु नैवेद्यप्रतिपत्यर्थ सात्वतश्चेन लभ्यते । ग्रासमात्रं समुद्धृत्य जलेऽग्नौ वा विनिःक्षिपेत् ॥ इति अनुकल्पो द्रष्टव्यः । इदं च प्रतिमादिपूजायाम् । स्था वरपूजायां तु सात्वतेभ्य एव देयम् , तथाशिष्टाचारात् । स्वयं तदुपभोगस्य शिष्टाचारविरोधाच्च । विष्णुरहस्ये, यद्योनिरत्ति नैवेद्यं दातुश्चानवधानतः । दाता तयोनिमामोति तस्माद्देयं सदुत्तमे ॥ यत्र यत्र यस्य यस्य देवस्य नैवेद्यप्रतिपत्तिर्विहिता सा त. द्धीनेषु न कार्येत्यर्थः। यद्वा सच्छब्देन सत्त्वमूर्तिर्भगवान् उपास्यतया विद्य. ते यस्य स सत्वान् सत्वानेव सात्वतः। नैवेद्यनुपयुञ्जीत दत्त्वा तद्भक्तिशालिने । इति भागवतात्, निगेदितं तद्भक्ताय दद्यादभुञ्जीत वा स्वयम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107