Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे नीराजनैश्च हरये दद्यादापोशनं ततः ॥ स्कन्दपुराणे, मुनीन्द्रं करकोपेतं कुम्भं कृष्णाग्रतो न्यसेत् । कल्पान्ते न जलापेक्षां कुर्वन्ति च पितामहाः ।।
अथ नैवेद्यप्रतिपत्तिः। हरिनाथीयस्मृतिसारे, ब्रह्माङ्गलग्नं विप्रेभ्यो वैष्णवं च प्रदीयते । रुद्राङ्गलग्नमग्नौ तु दहेत्सर्वं च तत्क्षणात् ।। शिष्टेभ्यस्त्वथ देवेभ्यो यत्तत् दीनेषु निःक्षिपेत् ।। तथा, विप्रेभ्यस्त्वथ तद्देयं ब्रह्मणे यनिवेदितम् । वैष्णवं सात्वतेभ्यश्च भस्माङ्गेभ्यश्च शाम्भवम् । सौरं मगेभ्यः शाक्येभ्यस्तापिने यनिवेदितम् । स्त्रीभ्यश्च देयं मातृभ्यो यत्तु किञ्चिन्निवेदितम् ।। भूतप्रेतपिशाचेभ्यो यत्तद्दीनेषु निःक्षिपेत् । विष्णुरपि,
सूर्याय निवेदितं मगाय ब्रह्मणाय देयम् । देव्यै निवेदितं कुमार्यै देयम् । शिवाय निवेदितं तल्लिङ्गधारिणे देयम् । विष्णव निवेदितं सात्वताय देयं ब्राह्मणाय वा । इति ।
सात्वतलक्षणं ब्रह्माण्डे, पञ्चमः सात्वतो नाम विष्णोरायतनान्यपि । पूजयत्याज्ञया राज्ञो यदि स्यात्संयतेन्द्रियः ॥ इति ।
मगः शाकद्वीपीयो ब्राह्मणः । तापी बुद्धः। कचित्तिथ्यादौ बुद्धपूजा विहिता । मातृभ्य इति देवीमात्रोपलक्षणम् ।
स्कन्दपुराणे,
For Private And Personal Use Only

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107