Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 84
________________ Shri Mahavir Jain Aradhana Kendra ८० www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे यद्यदिष्टतमं भोज्यं तत्तदीशाय विष्णवे । दत्त्वा तु तत्पदं याति चत्वारिंशत्कुलान्वितः ॥ बौधायनः, पयसा वत्सरं तृप्तिर्धृतपकैर्दशाब्दिकी । दना चैव शतार्द्धं च घृतेन शतवत्सरम् ॥ नैवेद्यं कल्पयेोद्विष्णोस्तदभावे तु पायसम् । केवलं घृतसम्पृक्तं पायसं च प्रकल्पयेत् ॥ परिपकं सुपात्रस्थं सुगन्धि नयनप्रियम् । सद्यस्कमेतत्रितयं नैवेद्येऽतिशुभप्रदम् ॥ सद्यस्कं तत्कालपक्कम् | कदलीनारिकेलानां पनसानां फलानि च । जम्बूफलेक्षुदण्डानि सुपक्कानि शुभानि च ॥ भक्ष्याणि यानि श्रेष्ठानि कन्दमूलफलानि च । नैवेद्ये तानि सर्वाणि दातव्यानीतराणि च ॥ मुद्रा निष्पावका माषास्तुवर्यवणका अपि । पञ्चैतेऽतिप्रशस्ताः स्युर्नैवेद्ये दोषवर्जिताः ॥ अथ नैवेद्ये निषिद्धानि । विष्णुः नाभक्ष्यं नैवेद्यार्थे, भक्ष्येष्वपि पञ्चनखमत्स्यवाराहमांसानि मेषीमहिषीछागानां दुग्धदधिघृतान्यदेयानि । तथा वाराहपुराणम्, अमरायोपयोज्यानि गव्यं दधि पयो घृतम् । माहिषं चाविकं छागमयज्ञियमुदाहृतम् ॥ कौमें, वृन्ताकं जालिका शाकं कुसुम्भान् मालकं तथा । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107