Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 83
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णानैवेद्यम् । आक्षोटोदुम्बरं तालं जातीङ्गुदफलं तथा । कालिन्दकं फलं चैव बृहतीफलमेव च ॥ उभयानि पटोलानि कुमुदस्य फलं तथा । मूलकं माफलं चैव करमर्दफलं तथा ॥ कर्मण्यं च फलं ह्येतत् प्रतिगृह्णामि माधवि । मोचकं पनसं जम्बू तथाऽन्यल्लवलीफलम् ॥ प्राचीनामलकं श्रेष्ठं मधूकोदुम्बरं तथा । फलं पक्कमपि ग्राह्यं कदलीफलमुत्तमम् ।। प्राचीनामलकं करमर्दः । इङ्गुदीफलबिम्बानि बदरामलकानि च । खर्जूरान् पनसश्चैिव मालकार्कपरूपकान् ॥ आम्रानुदुम्बरांश्चैव तथा प्लक्षफलानि च । पिण्डारकफलं चैव पुन्नागफलमेव च ॥ शमी च करवीरं च बीजपूरफलं तथा । उर्वारुकफलं चैव तथा निम्बफलानि च ॥ सर्ज कर्कोटकं चैव तथा तालफलानि च । कुमुदस्य फलं चैव बहेलकफलं तथा ॥ मृणालं पुष्करं चैव शालूकस्य फलं तथा । प्लक्षं च दाडिमं चैव पिण्डखजूरमेव च ॥ मरीचं शिशुपाकं च भल्लातं करमर्दकम् । एते चान्ये च बहवः कन्दमूलफलानि च ॥ एतानि चोपयोज्यानि यान्युक्तानि मया च ते । फलानामप्यलाभे तु तृणगुल्मौषधीरपि ॥ औपधीनामलाभे तु तोयान्यपि निवेदयेत् । तदलाभे तु सर्वत्र मानसं प्रवरं स्मृतम् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107