Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 81
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोनैवेद्यम् । वर्षकोटिसहस्राणि वर्षकोटिशतानि च । वसते देवलोकेषु अप्सरोगणसेवितः ॥ सर्ववाद्यमयी घण्टा केशवस्य सदा प्रिया । वादनाल्लभते पुण्यं यज्ञकोटिशतोद्भवम् ॥ मन्वन्तरसहस्राणि मन्वन्तरशतानि च । घण्टानादेन देवश्च प्रीतो भवति केशवः ।। वेणुवीणास्वनं चैवं करोति स्तवनं हरेः । मृदङ्गवादनयुतं प्रणवेन समन्वितम् ॥ अर्चनं वासुदेवस्य तन्नित्यं मोददं नृणाम् । दीपनिर्वापणनिषेधश्च भविष्ये, तांश्च दत्त्वा न हिंसेत तिलतैलविवर्जनात् । कुरूपो दीपहन्ता च मूषकोऽन्धश्च जायते ॥ अन्धे तमसि दुष्पारे नरके पच्यते किल । इति । इति दीपाः । अथ नैवेद्यम् । तत्र विष्णुः, साज्यशाल्योदनपायसखण्डलड्डुकपकफलमूलशाकमृणालव्रीहिमाषमुद्गगवेधुकगव्यपयोदधिघृतादीनि । देयानीति शेषः। नरसिंहपुराणे, हविष्यानोदकं दिव्यमाज्ययुक्तं सशर्करम् । निवेद्य नरसिंहाय यावकं पायसं तथा ॥ समास्तण्डुलसङ्ख्याता यावत्यस्तावतीनृप । विष्णुलोके महाभोगान् भुअन्नास्ते स वैष्णवः ॥ बृहन्नारदीये, हविः शाल्योदनं दिव्यमाज्ययुक्तं सशर्करम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107