Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 79
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org विष्णोदपाः । नरसिंहपुराणे, घृतेन वाथ तैलेन दीपं यो ज्वालयेन्नरः । विष्णवे विधिवद्भक्त्या तस्य पुण्यफलं शृणु ॥ विहाय सकलं पापं सहस्रादित्यसन्निभः । ज्योतिष्मता विमानेन विष्णुलोके महीयते ॥ विष्णुधर्मोत्तरे, Acharya Shri Kailassagarsuri Gyanmandir प्रज्वल्य देवदेवस्य कर्पूरेण च दीपकम् । अश्वमेधमवाप्नोति कुलकोटिं समुद्धरेत् ॥ संवर्त्तः, देवागारे द्विजानां च दीपं दत्त्वा चतुष्पथे । मेधावी ज्ञानसंपन्नचक्षुष्मान् जायते नरः ॥ स्कान्दे, कर्पूरेण तु यः कुर्याद्भक्त्या केशवमूर्धनि । आरात्रिकं मुनिश्रेष्ठ प्रविशेद्विष्णुमव्ययम् ॥ बहुवर्त्तिसमायुक्तं ज्वलितं केशवोपरि । कुर्यादारात्रिकं यस्तु कल्पकोटिं दिवं वसेत् ॥ घृतेन दीपं यो दद्याच्छङ्करायाथ विष्णवे । स मुक्तः सर्वपापेभ्यो गङ्गास्नानफलं लभेत् ॥ तिलतैलान्वितं दीपं विष्णोर्वा शङ्करस्य च । दत्त्वा नरः सर्वकामान् संप्राप्नोति नरोत्तमः || विष्णुधर्मोत्तरे, पद्मपत्रोद्भवं वर्त्तिं गन्धतैलेन दीपकम् । कुर्वन्निति शेषः । नीरोगः सुभगश्चैव राजा भवति मानवः ।। महावर्त्तिः सदा देया भूमिपाल महाफला । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107