Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 76
________________ Shri Mahavir Jain Aradhana Kendra ७२ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे लोकविद्विष्टपुष्पैश्र लोकविद्वेषतां व्रजेत् ॥ उक्तं न दुष्यते कञ्जं कुसुमं चानुलेपनम् । मूर्त्तिभेदे तथा काम्ये रक्तादीनां न दुषणम् ॥ बिल्वं च तुलसीपत्रं बकुलं शुष्कमेव वा । यानि स्युर्वर्णयुक्तानि रसगन्धयुतानि च ।। तानि पुष्पाणि देवानां पूजार्हाणि यथाविधि । पुष्पं वस्त्रे न बनीयाच्छिरसा न वहेद्बुधः ॥ नयेत्पत्रपुटेनैव पाणिमालम्ब्य संयतः । इति । आश्वलायनाचार्यः, नाग्निना सह पुष्पं वा जलं चान्नं च वा नयेत् । असाभ्यां शिरसा वाग्नि न वहेच्च जलं तथा ॥ तथा गन्धांश्च पुष्पं च न वहेदोदनं द्विजः । इति पुष्पविधिः ॥ अथ धूपाः । धूपांश्च विविधान् साधूनसाधूंश्च निबोध मे । निर्यासाः सारिणश्चैव कृत्रिमाश्चेति ते त्रयः ॥ इष्टोऽनिष्टो भवेद्गन्धस्तन्मे निगदतः शृणु । निर्यासाः शल्लकीवर्जा देवानां दयिताश्च ते ॥ गुग्गुलुः प्रवरस्तेषां सर्वेषामिति निश्वयः ॥ अगुरुः सारिणां श्रेष्ठो यक्षराक्षसभोगिनाम् । दैत्यानां शल्लकीयश्च काङ्क्षितो यश्च तद्विधः ॥ अथ सर्जरसादीनां गन्धैः पार्थिवदारवैः । दारवै रससंयुक्तैर्मनुष्याणां विधीयते ॥ देवदानवभूतानां सद्यस्तुष्टिकरः स्मृतः । य एवोक्ताः सुमनसः प्रसादे गुणहेतवः ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107