Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 74
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे ऽवगम्यते । यद्वा विहितप्रतिषिद्धत्वात्पोडशिग्रहणाग्रहणवद्वि कल्पः । प्रातरुत्थाय चिनुयात्स्वारामात्स्वयमेव हि । पूजार्थमस्त्रमन्त्रेण पुष्पादीन् प्रयतः सदा ॥ अत्र प्रातर्वचनं अष्टधाविभक्तस्याऽह्नो द्वितीयभागोपलक्ष. णार्थम् । अत एव दक्षः, समित्पुष्पकुशादीनां द्वितीयः परिकीर्तितः । इति । यायादरण्यमथवा संवादरहितं शुभम् । विधिनैव गृहीतैस्तु दभैर्वा प्रोक्षितैः सदा ॥ शुद्धरेव यजेयत्नान्नच चौर्यादुपाहतैः । अस्वामिकवनानीतं स्वीकृतं विक्रयेण च ॥ फलेत देवपूजायां निष्फलं याचितं तु यत् । क्रीतं शिष्यादिनानीत पुष्पं पूजार्थमुच्यते ॥ प्रक्षाल्य पाणी पादौ च आचम्य च कृताञ्जलिः । पादपाभिमुखो भूत्वा प्रणवादिनमोन्तकम् ॥ विसृज्य पुष्पमेकं तु वाचा वरुणमुच्चरेत् । व्योमाय च पृथिव्यै च द्वित्रिपुष्पं यथाक्रमम् ॥ विसृजेदिति शेषः । अत्रैवं प्रयोगः । ॐवरुणाय नमः । ॐव्योमाय नमः । ॐपृथिव्यै नमः । वरुणशब्दे यद्यपि चतुर्थी नास्ति तथापि नमसो योगात्, व्योमादिपदद्वये तदर्शनाचतुर्थ्याः प्रयोगः । व्योमायेति छान्दसम् । पूर्व पूर्वमुखो भूत्वा पुष्पं संचिनुयाच्छुभम् । तत्र मन्त्रः माऽनुशोकं कुरुष्व त्वं स्थानत्यागं च मा कुरु । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107