Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोः पुष्पाणि । देवतापूजनार्थाय प्रार्थयामि वनस्पते ॥ स्थलजं नोद्धरेत्पुष्पं छेदयेजलजं न तु । उच्छिष्टाद्यैरुपहतं केशकीटादिसंयुतम् ।। अगन्धमुग्रगन्धं च हीनवर्णरसादिकम् । शुष्कं विशीर्ण भूयुक्तं म्लानमन्योपभुक्तकम् ।। कृष्णं पर्युषितं पुष्पं त्यजेदन्यार्थमाहृतम् । वृन्तच्युतं च मुकुलं फलयुक्तमदेशजम् ।। तथा, देवा वृक्षस्वरूपेण जातास्ते मत्सरान्विताः । तेषां परस्परं वैरं तत्पुष्पं तेषु निन्दितम् ।। यमो निहन्ता सर्वासां प्रजानां ब्राह्मणामपि । ( ? ) तस्मात्तत्कुसुमं सर्वदेवानामप्रियं मतम् ॥ यमो विभीतक इति वोपदेवोऽव्याख्यत् । दन्तपातभयत्रस्तः पूषा वैरपरः सदा । देवीपत्रोद्भवं पत्रं सूर्ये दुःखप्रदायकम् ।। बिल्वपत्रेण सूर्यो नार्यः। बिल्वपत्रं शमीपत्रं पत्रं भृङ्गरजस्य च । तमालपत्रं च हरे सदैव तपनप्रियम् । अत्र सूर्ये बिल्वपत्रस्य विहितप्रतिषिद्धत्वाद्विकल्पः । तापोन्मादकरं द्रव्यं सात्त्विकानां हितं नहि । बस्मात्स्वर्णरवी नेष्टौ स्वर्णश्रीविभवे सुरे ॥ विष्णुं धत्तुराकपुष्पाभ्यां नार्चयेदित्यर्थः । शेपतल्पे शयानस्य तच्छ्वासोच्छ्वाससङ्गमात् । सन्तप्तो विग्रहस्तस्य तच्छान्त्यै पङ्कजं प्रियम् ॥ अनुक्तकुसुमं दत्वा दौर्भाग्यं समवाप्नुयात् ।
For Private And Personal Use Only

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107