Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 67
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोः पुष्पाणि । मनोहारीणि शुद्धानि कुसुमान्युत्कटानि वै । याभिश्च पत्रिकाभिश्च पूजितो यत्फलप्रदः ॥ ताः समासेन वक्ष्यामि पत्रिका हरितोषिकाः । आद्या तु तुलसीपत्री तथा संपूजितो हरिः ॥ सकृन्मन्त्रेण देवेन्द्र सर्वदा पूजितो भवेत् । यत्र यत्र भवेदिन्द्र तुलसीपत्रिका शुभा । तत्र तत्र स्थितो विष्णुर्मुक्तये पुरुषस्य वै । अष्टोत्तरशतैः शुद्धैर्विल्वपत्रैर्जनार्दनम् || यस्तु पूजयते भक्त्या सोपि विष्णुपुरीं व्रजेत् ॥ शमीपत्रैः सकृत्पूज्य विष्णुं विश्वेश्वरं हरिम् । सर्वान् कामानवाप्नोति सत्यमेतन्मयोदितम् || दुर्वयाऽगस्त्यपत्रैश्र श्रीदेव्या विष्णुयोषिता ।। तमालैश्वाच्युतं पूज्य नरः पापात्प्रमुच्यते । येषां पुष्पाणि पत्राणि कथितानि मया तव ॥ तत्फलैश्चार्चयेद्विष्णुं विनैकं करवीरकम् । पनसैः कदलीभिश्च मातुलिङ्गैश्व दाडिमैः ॥ नाग्त्रैश्चैव जम्बीरैः पूर्वोक्तैर्नारिकेलकैः । सर्वधान्यौषधीभिश्च फलैश्वान्यैः सुशोभनैः ॥ पूजयेद्यो ऽच्युतं भक्त्या स वै मोक्षैकभाजनम् । एवं सङ्क्षेपतः प्रोक्तो वैष्णवः पुष्पसङ्ग्रहः ॥ एतैरेवोक्तपुष्पैर्यः स्रजो वृद्धा विचक्षणः । अर्चयेत्सकृदप्येवं स याति परमां गतिम् ॥ प्रतिमायाः प्रमाणेन मालामेतां सुपुण्यकाम् । आरोप्य निखिलैः पुष्पवन्द्यमानो दिवं व्रजेत् ॥ यः पुनः स्वयमुद्यानं कृत्वा पुष्पं तदुद्भवम् । For Private And Personal Use Only ६३

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107