Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 65
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोः पुष्पाणि । मधुमन्त्यविकीर्णानि स्वकालाहतकानि च । शुभपात्रान्तरस्थानि शुचिहस्ताहतानि च । गन्धवन्ति मनोहारिकान्तिकान्तानि यानि वै । पुष्पाणां लक्षणं प्रोक्तं हेयोपादानवर्मना । फलानामथ पत्राणां हेयोपादानलक्षणम् । शृणु तत्रैव वक्ष्यामि यथातथ्यफलाप्तये ॥ विहितानि फलान्येव निर्बणानि मृदूनि च । शुभवीजानि रम्याणि फलान्युक्तानि पूजने ॥ पत्रिका च शुभा रम्या कोमलाऽमलरूपिणी । कृमिकेशपतङ्गादिदोषानुपहताऽऽकृतिः ॥ शुभगन्धवती श्लक्ष्णा पत्रिका पापहारिणी । वैष्णवान्यपि पुष्पाणि संक्षेपेण निबोध मे ॥ रक्तोत्पलशतेनापि यत्फलं पूजिते नृणाम् । श्वेतोत्पलेन चैकेन तत्फलं समवाप्नुयात् ॥ श्वेतानामेकलक्षेण यत्फलं पूजिते भवेत् । नीलोत्पलेन चैकेन तत्फलं समवाप्नुयात् ।। नीलोत्पलायुतानां तु लक्षकोठ्ययुतायुतैः । समर्चिते हृषीकेशे यत्फलं देहिनां भवेत् ।। तत्फलं समवामोति पझेनैकेन पूजकः । किमन्यैबहुभिः पुष्प वेधैर्वान्नसाधनैः ।। पद्मनैकेन संपूज्य कृष्णं विष्णुपुरं व्रजेत् । अवशेनापि चैकेन पझेन मधुसूदनम् । यदा तदापि वाऽभ्यर्च्य नरो विष्णुपुरीं व्रजेत् । एकया वापि केतक्या यदा संपूज्यते हरिः ।। पूजितो द्वादशाब्देन केशवस्तेन निश्चितम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107