Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 71
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोः पुष्पाणि! . ६७ गन्धाढ्यैर्निर्मलैवन्यैः कुसुमैः कुब्जकोद्भवैः । भक्त्याभ्यर्च्य हृषीकेशं श्वेतद्वीपे वसेन्नरः ।। शुभ्राशुभैर्महागन्धैः कुसुमैः पङ्कजोत्पलैः । अधोक्षजं समभ्यर्य नरो याति हरेः पदम् ।। रत्नावल्याम्, जलजानां च सर्वेषां पत्राणामहतस्य च । कुशपुष्पस्य रजतसुवर्णकृतयोस्तथा ॥ न पर्युषितदोषोऽस्ति तीर्थतोयस्य चैवहि । मुकुलैर्नार्चयेद्देवं चम्पकैलजैविना ॥ .. इति । तत्र प्रबालमुक्तादिपुष्पैरभ्यर्च्य केशवम् । .. सर्वपापविनिर्मुक्तो मुक्तो भवति मानवः । कदम्बमल्लिकाकुन्दमालत्युत्पलजातिभिः । बकुलाशोकपुन्नागकेतकरतिमुक्तकैः ॥ कुब्जचम्पकपुष्पैश्च रक्तपुष्पैश्च यो हरिम् । अर्चयेद्दशसौवर्णफलं प्रत्येकमाप्नुयात् ॥ योऽर्चयेद्विधिवद्भक्त्या विष्णु नीलोत्पलैः शुभैः ।। नागचम्पकपुबागमल्लिकाकुसुमैर्हरिम् ।। सकदभ्यर्चयेत् भक्त्या पूर्णा श्रियमवाप्नुयात् । सुपर्णपुष्पमालाभी राजसूयफलं लभेत् ॥ जातीपुष्पशतैर्मालां केशवाय निवेदयेत् । धेनुदानसहस्रेण फलं मामोत्यसंचयम् । मालां दद्यान्माधवाय जातीपुष्पसहस्रकैः। कल्पकोटिसहस्त्राणि विष्णुलोके महीयते ॥ मालतीकल्पितां मालामीषद्विकसितो हरेः। दत्त्वा शिरसि विप्रेन्द्र वाजिमेधायुतं फलम् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107