Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 68
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे आदाय च सजो बद्धा ताभिर्देवं समर्चयेत् ॥ सर्वलोकेश्वरो भूत्वा ततो मुक्तिमवाप्नुयात् । तेन यागाः कृताः सर्वे दानानि निखिलानि वै ॥ देवताः पूजिताः सर्वोस्तीर्थानि निखिलानि वै । पुष्पोद्यानं कृतं येन हस्तमात्रमथापि वा ॥ नृत्यन्ति सकला देवा गायन्ति हर्षसङ्कुलाः । क्रियमाणं शुभोद्यानं दृष्ट्वा सन्तोषगर्विताः ॥ प्रमादेनाथ भक्त्या वा लोभादम्भात्तथैव च । वितस्तिमात्रकं वापि हस्तमात्रमथापि वा ॥ उद्यानं स्थिरमुत्कृष्टं यः करोति कलौ युगे । किं तेन न कृतं पुण्यमश्वमेधादिसंज्ञितम् ।। यावदुद्यानभूमिश्च यावचन्द्रदिवाकरौ । तावत्तत्पितरः स्वर्गे मोदन्ते देवराडिव ॥ तेऽपि दूता यमस्यान्ते दृष्ट्वैवाधानकारकम् । नित्यं दूरात्पलायन्ते तमो भानुकरादिव ।। तस्माद्बुद्धिमता कार्य मानुष्ये जन्म भाजिना। वित्तानुरूपमुद्यानं कृत्वा मुक्तिमवाप्नुयात् ।। योऽपि दुरात्समाहृत्य सुपुष्पाणि च पत्रिकाम् । महारथं समुद्राह्य पूजयेद्देवतां बुधः ।। सर्वपापक्षयस्तस्य तत्क्षणादेव जायते । जीवन् कामान् प्रभुज्येह मृतो मुक्तिमवाप्नुयात् ।। पुनर्जन्मनि सम्भूतो यदि तां भुवमश्नुते । पुष्पाणि तत्फलं चैव यथा यस्य तु यद्भवेत् ।। तत्सर्व तेऽधुना प्रोक्तं यथाशास्त्रविनिश्चयम् । केषांचिदपि पुष्पाणां शृण निर्माल्यताविधिम् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107