Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 66
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे करवीरकपुष्पेण रक्तेनाथ सितेन वा । मुचुकुन्दस्य चैकेन संपूज्य गरुडध्वजम् ॥ यावचन्द्र सूर्यश्च स्वर्ग भुक्त्वा ततः पुनः । पुरीं नारायणीं याति सत्यमेतन्मयोदितम् || जातिभिर्मल्लिकाभिश्च पुन्नागैर्नागचम्पकैः । अकाले चाप्यभक्त्या च तथैवामन्त्रपूर्वकम् ॥ श्रीपतिं सकृदभ्यर्च्य श्रियं पूर्णामवाप्नुयात् । चम्पकैर्नन्दिकावर्तैः कुन्दैश्चैव कुरण्टकैः ॥ बाणैश्व शतपत्रैश्च माधवैः कुसुमैस्तथा । अकाले वाप्यभक्त्या वा तथैवामन्त्रपूर्वकम् ॥ संपूजितो नृणां विष्णुः सर्वान् कामान् प्रयच्छति । किंपुनर्भक्तिपूर्व तु मन्त्रपूतं सनातनम् । अर्चयन् कुसुमैरेतैर्मुक्तिभागी भवेन्नरः । यो जपाकुसुमैकेन नारसिंहमथापरम् ॥ जलशायिनमभ्यर्च्य सर्वान् कामानवाप्नुयात् ॥ मालतीकुसुमैश्वान्यैः कुसुमैः कुटजोद्भवैः । नारायणं समभ्यर्च्य परं स्वर्गे महीयते ॥ कर्णिकारमयैः पुष्पैर्वकुलैः केसरैः शुभैः । गोकर्णनामकर्णानां कुसुमैश्व सुगन्धिभिः ॥ कहारैश्च तथा कुन्दैः कदम्बैरर्जुनैस्तथा । सकृदभ्यर्च्य संपूज्य सर्वान् कामानवाप्नुयात् ॥ एवं पुष्पाणि देवेन्द्र संक्षेपेणोदिता नि वै । वैष्णवानि प्रसिद्धानि पुष्पाण्यन्यानि मे शृणु ॥ यानि यानि च रम्याणि गन्धवन्त्यमलानि च । वन्यानि च शुभान्येवमन्यान्यभिनवानि च ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107