Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 59
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org विष्णोः पुष्पाणि । Acharya Shri Kailassagarsuri Gyanmandir तथा, कुङ्कुमस्य तु पुष्पाणि बन्धुजीवस्य चाप्यथ । चम्पकस्य च देयानि तथा भूचम्पकस्य च ॥ पीतयूथिकजान्येव नीपवन्धूकजान्यपि । मञ्जर्यः सहकारस्य तथा देव जनार्दने || भूचम्पकः यस्य पत्राभावेऽपि मूलात्पुष्पमुद्गच्छति । तथा, जातीनामपि सर्वासां शुक्ला जातिः प्रशस्यते । तथा पुरन्धिपुष्पैर्यः कुर्यात्पूजां मधुद्विषः || तस्य प्रसादमायाति देवश्चक्रगदाधरः । रम्याः पुरन्धिमञ्जर्यो दयितास्तस्य नित्यशः || । तथा, श्वेतैः पुष्पैः समभ्यर्च्य सर्वान् कामानवाप्नुयात् । ऐश्वर्य प्राप्नुयालोके पीतैरेवं समर्चयन् ॥ शत्रूणामभिचारेषु तथा कृष्णैः समर्चयन् । सुवर्णपुष्पदानेन राजसूयफलं लभेत् ॥ दत्तमात्रं हरेः पुष्पं निर्माल्यं भवति क्षणात् । उपभुङ्क्ते त्वहोरात्रं मालत्याः कुसुमं हरिः ॥ कर्णिकारमयैः पुष्पैः कान्तैः कनकप्रभैः । अर्चयित्वाऽच्युतं लोके मम लोके महीयते ॥ तिलकस्योज्वलैः पुष्पैः सम्पूज्य मधुसूदनम् । धूतपापो निरातङ्कः कृष्णस्यानुचरो भवेत् ॥ गोकर्ण नागकर्णाभ्यां तथा बिल्वदलेन च । अर्चयित्वाऽच्युतं देवं देवानामधिपो भवेत् ॥ केतकीपुष्पैः कुसुमैस्तिमिरोद्भवैः । For Private And Personal Use Only ५९

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107