Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 61
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोः पुष्पाणि । तत्त्वसागरसंहितायां नारदेन्द्रसंवादे, नत्र सङ्क्षेपतो वक्ष्ये पुष्पदानविधिक्रमम् । द्विविधं पुष्पमाख्यातं शुद्धं निर्माल्यमेव च । मानसं शुद्धमित्युक्तं निर्माल्यं बाह्यमुच्यते । बाह्यपुष्पसहस्राणां सहस्रायुतकोटिभिः ॥ पूजिते यत्फलं पुंसां तत्फलं त्रिदशाधिप ।। मानसेनैकपुष्पेण विद्वानानोत्यसंशयम् । तस्मान्मानसमेवातः शस्तं पुष्पं मनीषिणाम् || इन्द्र उवाच । बाह्यं पुष्पं तु निर्माल्यं यदि तस्मात्फलं कथम् । पूजकानां भवेदेतद्वद नारद मे स्फुटम् ॥ नारद उवाच । निर्माल्यं द्विविधं प्रोक्तमुत्सृष्टं घ्रातमेव च । मन्त्रेण विधिना दत्तं देवायोत्सृष्टमेव तत् ॥ न क्रियान्तरयोग्यं तत् सर्वथा त्याज्यमेव च । घातपुष्पफलं सिद्धयेदल्पं तन्मनसाऽन्यथा || जातमात्राणि पुष्पाणि घ्रातान्येव निसर्गतः । अल्पबुद्धित्वतो नृणां बाह्यपुष्पैर्भवेद क्रिया ॥ बाह्यान्यपि च पुष्पाणि पञ्चधोक्तानि जातितः । परं चैवापरं चान्यदुत्तमं मध्यमाधमम् ॥ मणिरत्नसुवर्णादिनिर्मितं कुसुमोत्तमम् । तत्परं कुसुमं प्रोक्तमपरं चित्रवत्रजम् ॥ उत्तमं वृक्षजं पुष्पं मध्यमं फलरूपकम् । अधमं कुसुमं प्रोक्तं पत्रिकाजातमेव वा ॥ पराणामपराणां च निर्माल्यत्वं न विद्यते । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107