Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 56
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाश अर्चयंश्च सुवर्णस्य प्रत्येकं फलमाप्नुयात् ।। एवं हि राजन् नरसिंहमूर्तेः प्रियाणि पुष्पाणि तवेरितानि । पतैश्च नित्यं हरिमर्च्य भक्त्या नरो विशुद्धो हरिमेव याति ।। स्कान्दे, अगस्त्यवृक्षसंभूतः कुसुमैरसितैः सितैः। यऽर्चयन्ति हि देवेशं तैः प्राप्तं परमं पदम् ॥ आग्रेये, मालती मल्लिका चैव युथिका चातिमुक्तकः । पाटला करवीरं च जपा यावन्तिरेव च ॥ कुब्जकस्तगरश्चैव कर्णिकारः कुरण्टकः । चम्पको धातकः कुन्दो बाणो बर्बरमल्लिका ॥ अशोकस्तिलकश्चम्पस्तथा चैवाटरूषकः । अमी पुष्पाकराः सर्वे शस्ताः केशवपूजने ॥ वामनपुराणे बलिं प्रति प्रहादवाक्यम् , तान्येव च प्रशस्तानि कुसुमानि महासुर । यानि स्युर्वर्णयुक्तानि रसगन्धयुतानि च ।। जाती शताहा सुमनाः कुन्दं चारुपुटं तथा । वाणं च चम्पकाशोकं करवीरं च यथिका ॥ पारिभद्रं पाटला च बकुलं गिरिशालिनी । तिलकं जम्बुवनजं पीतकं तगरं तथा ॥ एतानि तु प्रशस्तानि कुसुमान्यच्युतार्चने । मुरभीणि तथान्यानि वर्जयित्वा तु केतकीम् ॥ जाती सुवर्णजाती । शताहा शतपुष्पा । सुमनाः जाती । चा. रुपुटः कर्णिकारः । गिरिशालिनी अपराजिता । कुटज इत्यन्ये । जम्बुवनजं जपाकुसुमम् । पीतकं पुष्पमात्रम् । केतकी For Private And Personal Use Only

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107