Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 44
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir X . वीरमित्रोदयस्य पूजाप्रकाशे एतानि केवलानि निषिद्धानि । मिलितानि विहितानि । त्रिपलं चन्दनं प्रोक्तं कुङ्कुमं तत्समं स्मृतम् ॥ कर्पूरं तु तदर्ध स्यात् घनसारश्च तत्समः । पलेनैकेन कस्तूरीमिलनाद्यक्षकर्दमः ॥ यथालाभानिमान् विद्वान् कलयेत्सङ्ख्ययाऽनया । एवं कर्जुमशक्तश्चेदेकैकेनापि पूजयेत् ॥ इति । वाराहपुराणे, कर्पूरं कुङ्कुमं चैव त्वचं तगरमेवच । रक्तं च चन्दनं चैव अगुरुं गुग्गुलं तथा । एतैर्विलेपनं दद्यात् सुरभिं तु विचक्षणः । वामनपुराणे, चन्दनेनानुलिम्पेत कुङ्कुमेन तु यत्नतः । उशीरपद्मकाभ्यां चै तथा कालेयकादिना ॥ सुगन्धैश्च सुरामांसीकर्पूरागुरुचन्दनः। तथाऽन्यैश्च शुभैव्यैरर्चयेजगतः पतिम् ।। तथा नारसिंहे, बकुलस्य च निर्यासैरग्निष्टोमफलं लभेत् । बकुलागुरुमिश्रेण चन्दनेन मुगन्धिना ॥ समालभ्य जगन्नाथं पौण्डरीकफलं लभेत् । एकीकृत्य च सर्वाणि समालभ्य जनार्दनम् ॥ अश्वमेधस्य यज्ञस्य फलं प्रामोत्यसंशयम् । कामगेन विमानेन विचरत्यमरप्रमः ॥ योऽनुलिम्पेत देवेशं कीर्तितैरनुलेपनैः । पार्थिवाद्यानि यावन्ति परमाणूनि तत्र वै ।। तावदन्दानि लोकेषु कामचारी भवत्यसौ । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107