Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५ विष्णोः पुष्पेषु तुसलीमहिमा। दत्त्वा तु तुलसीकाष्ठं सर्वाङ्गेषु मृतस्य च । पश्चाद्यः कुरुते दाहं सोऽपि पापात्प्रमुच्यते ॥ तीर्थ यदि न सम्प्राप्तं कीर्तनं स्मरणं हरेः। तुलसीकाष्ठदग्धस्य न तस्य पुनुरात्तिः ॥ यद्येकं तुलसीकाष्ठं मध्ये काष्ठशतस्य हि । दाहकाले भवेन्मुक्तिः पापकोटियुतस्य च ॥ गङ्गाम्भमो विशेषेण यान्ति तोयानि पुण्यताम् । तुलसीकाष्ठामश्राणि यान्ति दारूणि पूतताम् ॥ दह्यमानं नरं दृष्ट्वा तुलसीकाष्ठवाहिना । नीयमानो यमेनाशु विष्णुलोकं स गच्छति ।। जन्मकोटिसहस्रैस्तु पूजितो यैर्जनार्दनः । दह्यन्ते ते नराः सर्वे तुलसीकाष्ठवह्निना । तुलसीपावकेनैव दीपं यः कुरुते हरेः । दीपलक्षसहस्राणां पुण्यं भवति दैत्यज ॥ विष्णुधर्मोत्तरे, होमं कुर्वन्ति ये विप्रास्तुलसीकाष्ठवाहिना । सिक्थे सिक्थे तिले वापि अग्निष्टोमफलं भवेत् ॥ यो ददाति हरेधूपं तुलसीकाष्ठवाहिना । मेरुतुल्यं भवेद्दत्तं तद्दत्तं केशवस्य हि ॥ तुलस्या कुरुते यस्तु शालग्रामशिलार्चनम् । द्वात्रिंशदपराधांश्च क्षमते तस्य केशवः ॥ ब्रह्मपुराणे, लिङ्गमभ्यर्चितं दृष्ट्वा प्रतिमा केशवस्य हि । तुलसीपत्रनिकरैर्मुच्यते ब्रह्महत्यया ॥ अभिन्नपत्रां हरितां हृयमारसंयुताम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107