Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 52
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८ वीरमित्रोदयस्य पूजाप्रकाशे रविवारं विना दुर्वा तुलसी द्वादशी विना। जीवितस्याविनाशाय प्रविचिन्वीत धर्मवित् ॥ तथा, पक्षे पक्षे तु सम्पा द्वादश्यां मुनिसत्तम । ब्रह्मादयोऽपि कुर्वन्ति तुलसीवनपूजनम् ॥ सङ्क्रान्तावर्कपक्षान्ते द्वादश्यां निशि सन्ध्ययोः । अर्कः रविवारः। यैश्छिन्नं तुलसीपत्रं तैश्छिन्नो हरिमस्तकः ॥ पाने, द्वादश्यां तुलसीपत्रं धात्रीपत्रं च कार्तिके । लुनाति स नरो गच्छेन्नरकानतिगर्हितान् ।। देवार्थे तुलसीछेदो होमार्थे समिधस्तथा। इन्दुक्षये न दुष्येत गवार्थे तु तृणस्य च ॥ इत्यास्तां प्रसक्तानुप्रसक्तिः। धर्मसारे, शालग्रामशिलामूर्ध्नि तुलसीपत्रपातनम् । कर्मनिर्मलनायोक्तमेकादश्यामभोजनम् ।। योर्चयेद्धरिपादाब्जं तुलस्याः कोमलैर्दलः । न तस्य पुनराशत्तिर्ब्रह्मलोकात् कथश्चन ॥ पद्मपुराणे, सुगन्धितुलसीपत्रैः प्रतिमायाः समन्ततः। निश्छिद्रमास्तरेयस्तु सोऽनन्तफलमाप्नुयात् ॥ न विप्रसदृशं पात्रं न दानं सुरभीसमम् । न गङ्गया समं तीर्थ न पत्रं तुलसीसमम् ।। सुलसीपत्रसममन्यत्पत्रं नास्तीत्यर्थः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107