Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org २० वीरमित्रोदयस्य पूजाप्रकाशे कशीवासयुगान्यष्टौ दिनेनैकेन तद्भवेत् ॥ गङ्गा गोदावरी रेवा नद्यो मुक्तिप्रदास्तु याः । निवसन्ति सतीर्थास्ताः शालग्रामशिलाजले || स्मृत्यन्तरे, शालग्रामाः समाः पूज्या विषमा न कदाचन । समेषु न द्वयं पूज्यं विषमेष्वेक एवहि || तथा, विषमेष्वेक एवेज्यः समे द्वेषद् विवर्जयेत् । अत्रापवादो हेमाद्री, चत्वारो ब्राह्मणैः पूज्यास्त्रयो राजन्यजातिभिः । वैश्यैaiवेव सम्पूज्यौ तथैकः शूद्रजातिभिः || ब्राह्मणैर्वासुदेवस्तु नृपैः सङ्कर्षणस्तथा । प्रद्युम्नः पूज्यते वैश्यैरनिरुद्धस्तु शूद्रकैः ॥ शालग्रामपूजाधिकारिणः उक्ताः स्कन्दपुराणे, ब्राह्मणक्षत्रियविशां स्त्रीशूद्राणामथापि वा । शालग्रामेऽधिकारोऽस्ति नान्येषां तु कदाचन ॥ अन्येषां वर्णसङ्कराणाम् । स्त्रीशूद्राधिकारोऽत्र पूजायाम् । यः शूद्रेणार्चितं लिङ्गं विष्णुं वा प्रणमेन्नरः । तस्येह निष्कृतिर्नास्ति प्रायश्चित्तशतैरपि ॥ योषिद्भिः पूजितं लिङ्गं विष्णुं वा प्रणमेन्नरः । स कोटिकुलसंयुक्त आकल्पं रौरवं व्रजेत् ॥ बृहन्नारदीयज्ञापकात् 'अनिरुद्धस्तु शूद्रकै' रित्युदाहृतवचनाच्च । न तु स्पर्शे । तदुक्तं स्कान्दे, Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107