Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 40
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाश ताभ्यङ्गक्षमा भवेत्' इत्यतश्चित्रमृन्मयादिप्रतिमायां स्नानाभ्यञ्जने न स्तः। नारसिंहे, यः पुनः पुष्पतैलेन दिव्यौषधियुतेन च । अभ्यङ्ग कुरुते विष्णोस्तस्य प्रीतो भवेत्सदा ॥ यवगोधूमयोश्चूणरुद्वयोष्णेन वारिणा । प्रक्षाल्य देवदेवेशं वारुणं लोकमाप्नुयात् ।। इति । जलस्नानमाह भारद्वाज, स्वच्छं सुशीतलं स्वादु लघु सत्पात्रपूरितम् । आनीतं सज्जनैर्यत्तत्सलिलं श्रेष्ठमुच्यते ॥ गरुडपुराणे, तुलसीमिश्रतोयेन स्नापयन्ति जनार्दनम् । पूजयन्ति च भावेन धन्यास्ते भुवि मानवाः ॥ नारसिंह, पुष्पोदकेन गोविन्दं स्नाप्य भक्त्या नरोत्तम । सावित्रं लोकमासाद्य विष्णुलोके महीयते ।। स्कन्दपुराणे, शङ्ख कृत्वा तु पानीयं साक्षतं कुसुमान्वितम् । स्नापयदेवदेवेशं हन्यात्पापं पुराकृतम् ॥ क्षिप्त्वा गन्धोदकं शर्के यः स्नापयति केशवम् । नमो नारायणायति मुच्यते योनिसङ्कटात् ॥ वादित्रनिनदैरुच्चैर्गीतमङ्गलसंस्तवैः। यः स्नापयति देवेशं जीवन्मुक्तो भवेद्धि सः ॥ वादित्राणामभावे तु पूजाकाले च सर्वदा । घण्टाशब्दो नरैः कार्यः सर्ववाद्यमयो यतः ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107