Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्नानद्रव्यविधिः। कपिलाक्षीरमादाय शङ्ख कृत्वा जनार्दनम् ॥ यज्ञायुतसहस्रस्य स्नापयित्वा लभेत्फलम् । अग्यगोसम्भवं क्षीरं शङ्ख कृत्वा तु नारद ॥ यः स्नापयति देवेशं लभेत्पारायणं फलम् । पारायणं वेदाध्ययनजं फलम् । दध्यादीनां विकाराणां क्षीरतः संभवो यतः । दुःखानि सर्वपापानि क्षीरस्नानं ततो हरेत् ॥ नृसिंहपुराणे, स्नाप्य दध्ना सकृद्विष्णुं निर्मलं प्रियदर्शनम् । विष्णुलोकमवामोति सेव्यमानः सुरोत्तमैः ॥ बृहन्नारदीये, घृतेन मधुना वापि दध्ना वा तत्फलं शृणु । सर्वयज्ञफलं प्राप्य सर्वपापविमोचितः ॥ वसेद्विष्णुपुरं कल्पं त्रिःसप्तपुरुषान्वितः । तत्रैव ज्ञानमासाद्य योगिनामपि दुर्लभम् ॥ तत्रैव मोक्षमामोति पुनरावृत्तिदुर्लभम् । इक्षुक्षीरेण देवेशं यः स्नापयति केशवम् ॥ कुलायुतायुतयुतो विष्णुना सह मोदते । ब्राह्मे, देवानां प्रतिमा यत्र घृताभ्यक्षमा भवेत् । पलानि तत्र देयानि श्रद्धया पश्चनिंशतिः॥ अष्टोत्तरं पलशतं स्नाने देयं च सर्वदा । दे सहस्रे पलानां तु महास्नाने तु सङ्ख्यया ॥ दातव्यं येन सर्वासु दिक्षु निर्याति तघृतम् । अन्न घृतेत्युपलक्षणम् । तेन दुग्धादावपीयमेव सङ्ख्या । 'घृ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107