Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे रूक्षोऽस्निग्धः । चक्राङ्क इति शेषः । शुक्लवर्ण शुभं ज्ञेयं वृत्तचक्रं तथैवच ॥ शालग्रामादिलक्षणानि तु लक्षणप्रकाशस्थानि द्रष्टव्याणि । अथ विष्णुपूजादिफलान्यभिधीयन्ते । विष्णुरहस्ये, इति विष्णवर्चनं ये तु प्रकुर्वन्ति नरा भुवि । ते यान्ति शाश्वतं विष्णोरनन्तं परमं पदम् ॥ एवं ज्ञात्वार्चकस्येह सदा सर्व प्रसिध्यति । मुखं प्रज्ञां व कीर्तिं च लभते स्वर्गमुत्तमम् ।। त्रिसन्ध्यं पूजयेनित्यं स मुक्तः सर्वबन्धनात् । व्यासः, सर्वेषामेव लोकानां गुरुर्नारायणो हरिः। तस्य सम्पूजनं कार्य सर्वपापहरं हि यत् ॥ येयन्ति सदा विष्णुं शङ्खचक्रगदाधरम् । सर्वपापविनिर्मुक्ता ब्रह्माणं प्रविशन्ति ते ॥ बृहन्नारदीये, यो भारतभुवं प्राप्य विष्णुपूजापरो भवेत् । तस्य वै सदृशं नास्ति यथा वै रवितेजसः ॥ स्वाचारमनतिक्रम्य हरिभक्तिरतो हि यः। स याति विष्णुभवनं यद्वै पश्यन्ति सूरयः॥ कुर्वन् वेदोदितान् धर्मान् मुनीन्द्र स्वाश्रमोचितान् । हरिध्यानपरो यस्तु स याति परमं पदम् ॥ शिवपूजापरो वापि विष्णुपूजारतोपि वा । यत्र तिष्ठति तत्रैव लक्ष्मीः सर्वाश्च देवताः ॥ यत्र पूजापरो विष्णोस्तत्र वहिर्न बाधते । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107