Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ वीरमित्रोदयस्य पूजाप्रकाशे देवदेवस्य विधिना सर्वपापैः प्रमुच्यते ॥ दत्त्वेति शेषः। एवं यः पूजयेद्राजन् नरसिंहं नरोत्तमः । तस्य स्वर्गापवर्गौ तु भवतो नात्र संशयः ।। यत्र वै पूजितो विष्णुर्नरसिंहो नरैर्नृप । न राजन् तत्र दुर्भिक्षं राजचोरादिकं भयम् ।। एवमादिफलोपेतं नारसिंहार्चनं नृप । कुरु त्वं नृपतेः पुत्र यदि वांछसि सद्गतिम् ।। इतः परतरं नास्ति स्वर्गमोक्षफलप्रदम् । दरिद्रः सुकरं कर्तुं देवदेवस्य पूजनम् ।। मनो नियमयेदेकं विष्ण्वाराधनकर्मणा । मनो नियमितं येन मुक्तिस्तस्य करे स्थिता ॥ इत्येवमुक्तं भृगुनोदितेन मया तवेहार्चनमच्युतस्य । दिनेदिने त्वं कुरु विष्णुपूजां वदस्त्र वान्यत्कथयामि किं ते॥ तथा प्रत्युपचाराणां फलं वच्मि फलार्थिनाम् । संमार्जनं हरे हे कृत्वा पापैः प्रमुच्यते ॥ विष्णुलोकं च गत्वाथ कल्पमेकं स तिष्ठति अभ्युक्षणकृतां चैव विष्णुलोकः प्रसिध्यति । उपलेपकृतां चैव चान्द्रायशफलं भवेत् । निर्माल्यमपनीयाने स्नानं यः कुरुते हरेः॥ गोपदानफलं तस्य खेचरत्वं च सिध्यति । तथा, देवमाल्यापनयनं देवागारसमूहनम् । स्नपनं सर्वदेवानां गोपदानफलं स्मृतम् ॥ समूहनं मृदुश्लक्षणया मार्जन्या जन्तुपरिहारेण मार्जनम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107